|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.239. अध्यायः 239
(अथ सुभद्राहरणपर्व ॥ 16 ॥)
Mahabharata - Adi Parva - Chapter Topics
रवैतकपर्वतंप्रति उत्सवार्थं कृष्णादीनां गमनम्॥ 1 ॥
तत्र कृष्णस्य परिव्राजकरूपार्जुनदर्शनम्॥ 2 ॥
सुभद्रादर्शनेन तस्यां संजातहृच्छयस्यार्जुनस्य यतिरूपेण सुभद्राहरणे कुष्णानुज्ञालाभः॥ 3 ॥
दूतेनिवेदितैतद्वृत्तान्तेन सपरिवारेण युधिष्ठिरेणाभ्यनुज्ञानम्॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-239-0x(1285)(10313)
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ।
वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम॥ 1-239-1(10314)
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः।
भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा॥ 1-239-2(10315)
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः।
स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः॥ 1-239-3(10316)
वादित्राणि च तत्रान्ये वादकाः समवादयन्।
ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः॥ 1-239-4(10317)
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्।
यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः॥ 1-239-5(10318)
पौराश्च पादचारेण यानैरुच्चावचैस्तथा।
सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः॥ 1-239-6(10319)
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः।
अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत॥ 1-239-7(10320)
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्।
अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्॥ 1-239-8(10321)
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ।
दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव॥ 1-239-9(10322)
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः।
निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च॥ 1-239-10(10323)
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ।
हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः॥ 1-239-11(10324)
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्।
तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा॥ 1-239-12(10325)
`वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः।
दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत॥' 1-239-13(10326)
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते।
वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः॥ 1-239-14(10327)
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्।
अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा॥ 1-239-15(10328)
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत।
तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्॥ 1-239-16(10329)
अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत।
वनेचरस्य किमिदं कामेनालोड्यते मनः॥ 1-239-17(10330)
ममैषा भगिनी पार्थ सारणस्य सहोदरी।
सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता।
यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्॥ 1-239-18(10331)
अर्जुन उवाच। 1-239-19x(1286)
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा।
रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्॥ 1-239-19(10332)
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्।
यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव॥ 1-239-20(10333)
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन।
आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्॥ 1-239-21(10334)
वासुदेव उवाच। 1-239-22x(1287)
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ।
स च संशयितः पार्थ स्वभावस्यानिमित्ततः॥ 1-239-22(10335)
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते।
विवाहहेतुः शूराणामिति धर्मविदो विदुः॥ 1-239-23(10336)
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम।
`यतिरूपधरस्तं तु यथा कालविपाकता।'
हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्॥ 1-239-24(10337)
वैशम्पायन उवाच। 1-239-25x(1288)
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्।
शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा॥ 1-239-25(10338)
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै।
श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः॥ 1-239-26(10339)
`भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते।
इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः॥ 1-239-27(10340)
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम्।
इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान्॥ ॥ 1-239-28(10341)
इति श्रीमन्महाभारते आदिपर्वणि सुभद्राहरणपर्वणि ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 239 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-239-5 चञ्चूर्यन्ते देदीप्यन्ते॥ 1-239-7 क्षीबो मधुमत्तः॥ 1-239-22 स्वभावस्यानिमित्ततः स्त्रीचित्तस्य शौर्यपाण्डित्याद्यनपेक्षत्वात्। स्त्रियो ह्यपरीक्षितेपि पुंसि आपाततो रमणीये सद्यः सकामा भवन्तीति भावः॥ ऊनचत्वारिंशदधिकद्विशततमोऽध्यायः॥ 239 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|